ध॒न्व॒च॒रो न वंस᳚गस्तृषा॒णश्च᳚कमा॒नः पि᳚बतु दु॒ग्धमं॒शुम् ॥
पदपाठः (Word-by-word)
ध॒न्व॒॑च॒रः । न । वंस᳚गः । तृ॒षा॒णः । च॒क॒मा॒नः । पि॒ब॒तु॒ । दु॒ग्धम् । अं॒शुम् ॥
सायणभाष्यम् (Sayana Commentary)
सइन्द्रोस्मद्यज्ञंप्रत्यागमदागच्छतु योदेवोवसूनांधनानां कर्मणिषष्ठी वसूनिधनानिचिकेतत् जानातिप्रदातुं सकीदृशः दामनादातादानमनावारयीणांधनानां गमनेदृष्टान्तः-धन्वचरोन धमुषासहसंचरन् धानुष्कइव वंसगोवननीयगमनः तृषाणः अत्यंतंतृषितः चकमानः कामयमानश्चसन् दुग्धं अभिषुतमंसुंसोमंपिबतु ॥ १ ॥