श्रवणम्

5.36.3
च॒क्रं न वृ॒त्तं पु᳚रुहूत वेपते॒ मनो᳚ भि॒या मे॒ अम᳚ते॒रिद᳚द्रिवः ।
रथा॒दधि᳚ त्वा जरि॒ता स᳚दावृध कु॒विन्नु स्तो᳚षन्मघवन्पुरू॒वसु᳚ः ॥
▶ पदपाठः (Word-by-word)
च॒क्रम् । न । वृ॒त्तम् । पु॒रु॒॑हू॒त॒ । वे॒प॒ते॒ । मनः᳚ । भि॒या । मे॒ । अम᳚तेः । इत् । अ॒द्रि॒॑वः॒ ।
रथा᳚त् । अधि᳚ । त्वा॒ । ज॒रि॒ता । स॒दा॒॑वृ॒ध॒ । कु॒वित् । नु । स्तो॒ष॒म् । म॒घ॒॑व॒न् । पु॒रु॒॑वसुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपुरुहूत बहुभिराहूत हेअद्रिवः वज्रवन्निन्द्र मेमनः अमतेरित् दारिद्मादस्तोतुर्वासकाशात् भिया भीत्या वेपते कंपते वृत्तंचक्रंन भूमौवर्तमानंचक्रमिव यस्मादेवंतस्मात् रथादधि उपरिस्थितं त्वा त्वां हेसदावृध सर्वदावर्धमान हेमघवन् इन्द्र जरितास्तोतापुरूवसुरहमृषिः कुवित् बहु नुक्षिप्रं स्तोषत् स्तोष्यति स्तूयात् अत्र कुविच्छब्दयोगेपिआख्यातस्य बहुलग्रहणान्निघातः ॥ ३ ॥