यो रोहि᳚तौ वा॒जिनौ᳚ वा॒जिनी᳚वान्त्रि॒भिः श॒तैः सच᳚माना॒वदि᳚ष्ट ।
यूने॒ सम᳚स्मै क्षि॒तयो᳚ नमन्तां श्रु॒तर᳚थाय मरुतो दुवो॒या ॥
यूने॒ सम᳚स्मै क्षि॒तयो᳚ नमन्तां श्रु॒तर᳚थाय मरुतो दुवो॒या ॥
पदपाठः (Word-by-word)
यः । रोहि᳚तौ । वा॒जिनौ᳚ । वा॒जिनी᳚॑वान् । त्रि॒॑भिः । श॒तैः । सच᳚मानौ । अदि᳚ष्ट ।
यूने᳚ । सम् । अ॒स्मै॒ । क्षि॒तयः᳚ । न॒म॒न्ता॒म् । श्रु॒त॑र᳚थाय । म॒रु॒तः॒ । दु॒वः॒॑या ॥
यूने᳚ । सम् । अ॒स्मै॒ । क्षि॒तयः᳚ । न॒म॒न्ता॒म् । श्रु॒त॑र᳚थाय । म॒रु॒तः॒ । दु॒वः॒॑या ॥
सायणभाष्यम् (Sayana Commentary)
इयंश्रुतरथस्यराज्ञोदानस्तुतिःयोराजावाजिनीवानन्नवान्श्रुतरथोरोहितौरोहितवर्णौवाजिनौवेजनवन्तावश्वौत्रिभिःशतैःगवांधनानांवाउक्तसंख्याभिः सचमानौसंगच्छमानौसंगच्छमानौअदिष्ट दातेर्दिशतेर्वालुङीदंरूपं यूनेसर्वत्रमिश्रयित्रे नित्यतरुणायवा अस्मै श्रुतरथाय क्षितयः सर्वाः प्रजाः दुवोया तृतीयैकवचनस्ययाजादेशः परिचर्ययासंनमंतां प्रणताभवन्तु सेवन्तामित्यर्थः हेमरुतइतिइन्द्रसहायभूतानांमरुतांसंबोधनम् ॥ ६ ॥
संभानुनेतिपंचर्चंपंचमंसूक्तं अत्रेरार्षंत्रैष्टुभमैन्द्रं संभानुनापंचात्रिरित्यनुक्रमणिका विनियोगोलैंगिकः ।