श्रवणम्

5.36.4
ए॒ष ग्रावे᳚व जरि॒ता त᳚ इ॒न्द्रेय᳚र्ति॒ वाचं᳚ बृ॒हदा᳚शुषा॒णः ।
प्र स॒व्येन᳚ मघव॒न्यंसि᳚ रा॒यः प्र द᳚क्षि॒णिद्ध᳚रिवो॒ मा वि वे᳚नः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । ग्रावा᳚॑इव । ज॒रि॒ता । ते॒ । इ॒न्द्र॒ । इय᳚र्ति । वाच᳚म् । बृ॒हत् । आ॒शु॒षा॒णः ।
प्र । से॒व्येन᳚ । म॒घ॒॑व॒न् । यंसि᳚ । रा॒यः । प्र । द॒क्षि॒णित् । ह॒रि॒॑वः॒ । मा । वि । वे॒नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषजरितागरितास्तोताग्रावेव अभिषवाश्मेव सयथारसंजनयतितद्वत् हेइन्द्र तेतुभ्यंवाचंस्तुतिं इयर्ति प्रेरयतीत्यर्थः बृहत् महत् प्रभूतंफलंआशुषाणः आशुसंभक्तासन् हेमघवन् सव्येनहस्तेन रायोधनानि प्रयंसि प्रयच्छसि हेहरिवः हर्यश्वेन्द्र दक्षिणित् दक्षिणेनापिप्रयंसीतिशेषः माविवेनः विगतकामंमाकार्षीः ॥ ४ ॥