श्रवणम्

5.59.7
वयो॒ न ये श्रेणी᳚ः प॒प्तुरोज॒सान्ता᳚न्दि॒वो बृ᳚ह॒तः सानु᳚न॒स्परि᳚ ।
अश्वा᳚स एषामु॒भये॒ यथा᳚ वि॒दुः प्र पर्व᳚तस्य नभ॒नू{4}र᳚चुच्यवुः ॥
▶ पदपाठः (Word-by-word)
वयः᳚ । न । ये । श्रेणीः᳚ । प॒प्तुः । ओज᳚सा । अन्ता᳚न् । दि॒वः । बृ॒ह॒तः । सानु᳚नः । परि᳚ ।
अश्वा᳚सः । ए॒षा॒म् । उ॒भये᳚ । यथा᳚ । वि॒दुः । प्र । पर्व᳚तस्य । न॒भ॒नून् । अ॒चु॒च्य॒वुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येमरुतोवयोन पक्षिणइव श्रेणीः पंक्तयःसन्तः ओजसा बलेन दिवोन्तरिक्षस्यआदित्यस्यवा अन्तान् पर्यन्तान् बृहतोमहतः सानुनः स- मुन्नतस्याकाशवलयस्य परि परितः पप्तुः पतन्ति एषामश्वासःअश्वाः पर्वतस्य मेघस्य नभनून् नभतेः शब्दकर्मणोनभ्राट्इतिवत् नभनवः उदकानि प्राचुच्यवुः च्यावयन्ति उभयेदेवामनुष्याश्च यथाविदुर्जानन्ति तथामनुष्याणांज्ञानंप्रसिद्धं देवाश्चवृष्टौसत्यां आग्रयणादौ हविः- प्रदानेनजानन्ति देवानांवृष्टिसंपूर्तिपरज्ञानमाश्वलायनेनउक्तं यदावर्षस्यतृप्तः स्यादथाग्रयणेनयजेतेत्युपक्रम्यापिदेवाआहुस्तृप्तोनूनंवर्श- स्याग्रयणेनहियजतइति ॥ ७ ॥