श्रवणम्

5.29.4
आद्रोद᳚सी वित॒रं वि ष्क᳚भायत्संविव्या॒नश्चि᳚द्भि॒यसे᳚ मृ॒गं कः᳚ ।
जिग᳚र्ति॒मिन्द्रो᳚ अप॒जर्गु᳚राण॒ः प्रति᳚ श्व॒सन्त॒मव᳚ दान॒वं ह᳚न् ॥
▶ पदपाठः (Word-by-word)
आत् । रोद᳚सी॒ इति᳚ । वि॒॑त॒रम् । वि । स्क॒भा॒य॒त् । स॒म्॑वि॒व्या॒नः । चि॒त् । भि॒यसे᳚ । मृ॒गम् । क॒रिति᳚ कः ।
जिग᳚र्तिम् । इन्द्रः᳚ । अ॒प॒॑जर्गु᳚राणः । प्रति᳚ । श्व॒सन्त᳚म् । अव᳚ । दा॒न॒वम् । ह॒न्निति᳚ हन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रः परमैश्वर्ययुक्तः आत् सोमपानानंतरं रोदसी द्यावापृथिव्यौ वितरमतिशयेन अमुचच्छन्दसीतिवेस्तरपिकृते अमुप्रत्ययः विष्कभायत् व्यस्तभ्रात् चलनरहिते अकरोत् संविव्यानश्चित् संवृण्वानः संगच्छमानोवेन्द्रः व्ययतेर्वासंवरणकर्मणोवेतेर्वागतिकर्मणोरूपं चिदित्येवेत्यस्यार्थेवर्तते मृगं मृगवत्पलायमानं वृत्रं भियसे भयाय कःअकार्षीत् करोतेर्लुङि मंत्रेघसह्वरे त्यादिनाच्लेर्लोपः बहुलंछन्दस्यमाङ् योगेपीत्यडभावः इन्द्रः जिगर्तिं गिरंतमाच्छादयन्तं श्वसंतं भयार्थंश्वासं अकुर्वन्तं दानवं दनोःपुत्रं वृत्रं अपजर्गुराणः आच्छादनाद्विमोचयन् प्रति प्रतिगत्य अवहन् अवहतवान् ॥ ४ ॥