श्रवणम्

5.14.3
तं हि शश्व᳚न्त॒ ईळ᳚ते स्रु॒चा दे॒वं घृ᳚त॒श्चुता᳚ ।
अ॒ग्निं ह॒व्याय॒ वोळ्ह᳚वे ॥
▶ पदपाठः (Word-by-word)
तम् । हि । शश्व᳚न्तः । ईळ᳚ते । स्रु॒चा । दे॒वम् । घृ॒त॒॑श्चुता᳚ ।
अ॒ग्निम् । ह॒व्याय᳚ । वोळ्ह᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

शश्वन्तोबहवस्तोतारः तंदेवं अग्निंईळते स्तुवन्ति कीदृशास्ते घृतश्चुता घृतक्षरंत्यास्रुचास हिताः किमर्थंस्तुवन्ति हव्याय हव्यवहनार्थं चरुपुरोडाशादिलक्षणं हविर्वोढवे वोढुम् ॥ ३ ॥