श्रवणम्

5.14.6
अ॒ग्निं घृ॒तेन᳚ वावृधु॒ः स्तोमे᳚भिर्वि॒श्वच᳚र्षणिम् ।
स्वा॒धीभि᳚र्वच॒स्युभि᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । घृ॒तेन᳚ । व॒वृ॒धुः॒ । स्तोमे᳚भिः । वि॒श्व॑च᳚र्षणिम् ।
सु॒॑आ॒धीभिः᳚ । व॒च॒स्यु॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋत्विजः विश्वचर्षणिं विश्वस्यद्रष्टारं स्वाधीभिः शोभनाध्यानैः वचस्युभिः स्तुतिकामैर्देवैः समेतमग्निं घृतेन स्तोमेभिः स्तोमैःस्तोत्रैः ववृधुः अवर्धयन् ॥ ६ ॥

द्वितीयेनुवाकेऽष्टादशसूक्तानि तत्रप्रवेधसइतिपंचर्चंप्रथमंसूक्तं आंगिरसस्यधरुणस्यार्षं त्रैष्टुभमाग्नेयं अत्रानुक्रमणिका-प्रवेधसेपंचांगिरसोधरुणइति । प्रातरनुवाकेआग्नेयेक्रतौ त्रैष्टुभेछन्दसि आश्विनशस्त्रेचेदंसूक्तं सूत्रितंच-प्रवेधसेकवयेत्वंनोअग्नेवरुणस्यविद्वानितीति ।