सो अ॒ग्निर्यो वसु᳚र्गृ॒णे सं यमा॒यन्ति᳚ धे॒नवः᳚ ।
समर्व᳚न्तो रघु॒द्रुव॒ः सं सु᳚जा॒तासः᳚ सू॒रय॒ इषं᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
समर्व᳚न्तो रघु॒द्रुव॒ः सं सु᳚जा॒तासः᳚ सू॒रय॒ इषं᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
पदपाठः (Word-by-word)
सः । अ॒ग्निः । यः । वसुः᳚ । गृ॒णे । सम् । यम् । आ॒॑यन्ति᳚ । धे॒नवः᳚ ।
सम् । अर्व᳚न्तः । र॒घु॒॑द्रुवः᳚ । सम् । सु॒॑जा॒तासः᳚ । सू॒रय । इष᳚म् । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ ॥
सम् । अर्व᳚न्तः । र॒घु॒॑द्रुवः᳚ । सम् । सु॒॑जा॒तासः᳚ । सू॒रय । इष᳚म् । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ ॥
सायणभाष्यम् (Sayana Commentary)
सोग्निः स खल्वग्निर्यो वसुर्वासको गृणे । स्तूयते । यं धेनवः समायन्ति होमार्थम् । अर्वन्तोऽश्वा रघुद्रुवो लघुगमनाः समायन्ति । सुजातासः सूरयो मेधाविनश्च समायन्ति स खल्वग्निरिति ॥ २ ॥