तव॒ त्ये अ᳚ग्ने अ॒र्चयो॒ महि᳚ व्राधन्त वा॒जिनः᳚ ।
ये पत्व᳚भिः श॒फानां᳚ व्र॒जा भु॒रन्त॒ गोना॒मिषं᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
ये पत्व᳚भिः श॒फानां᳚ व्र॒जा भु॒रन्त॒ गोना॒मिषं᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
पदपाठः (Word-by-word)
तव᳚ । त्ये । अ॒ग्ने॒ । अ॒र्चयः᳚ । महि᳚ । व्रा॒ध॒न्त॒ । वा॒जिनः᳚ ।
ये । पत्व᳚॑भिः । श॒फाना᳚म् । व्र॒जा । भु॒रन्त᳚ । गोना᳚म् । इष᳚म् । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ ॥
ये । पत्व᳚॑भिः । श॒फाना᳚म् । व्र॒जा । भु॒रन्त᳚ । गोना᳚म् । इष᳚म् । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने तव त्वदीयास्त्ये तेऽर्चयो रश्मयो महि महदत्यधिकं वाजिनोऽन्नवन्तो वा व्राधन्त । वर्धन्ते । यद्वा लुप्तोपमा । वाजिनोऽश्वा इव । ये रश्मयः पत्वभिः पतनैः शफानां गोनां व्रजा यूथानि भुरन्त । इच्छन्ति । आयत ज्वाला होमाय काङ्क्शन्त इत्यर्थः । ते वर्धन्ते ॥ ७ ॥