श्रवणम्

5.79.10
ए॒ताव॒द्वेदु᳚ष॒स्त्वं भूयो᳚ वा॒ दातु᳚मर्हसि ।
या स्तो॒तृभ्यो᳚ विभावर्यु॒च्छन्ती॒ न प्र॒मीय᳚से॒ सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
ए॒ताव᳚त् । वा॒ । इत् । उ॒षः॒ । त्वम् । भूयः᳚ । वा॒ । दातु᳚म् । अ॒र्ह॒सि॒ ।
या । स्तो॒तृ॑भ्यः᳚ । वि॒भा॒॑व॒रि॒ । उ॒च्छन्ती᳚ । न । प्र॒॑मीय᳚से । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउषः त्वं अस्मभ्यं वा अथवा दित्सितं किमेतावदेव इच्छब्दएवकारार्थः अस्मिन्त्सूक्ते प्रार्थितमेवेत्यर्थः अथवा भूयोदातुमर्हसि अप्रार्थितमपियद्दातव्यमस्तितत्सर्वंदेहीत्यर्थः हे विभावरिउषः यात्वं स्तोतृभ्यस्तेषांलौकिकवैदिकव्यवहारार्थं व्युच्छन्तीतमोविवासय- न्ती नप्रमीयसे नहन्ति नक्रुध्यसीत्यर्थः सात्वंदातुमर्हसीति मीञहिंसायामित्यस्मात् श्नास्थानेव्यत्ययेनश्यन् ॥ १० ॥

द्युतद्यामानमितिषळृचमष्टमंसूक्तं अत्रानुक्रमणिका-द्युतद्यामानंषळिति । सत्यश्रवाऋषिः अनुक्तत्वान्त्रिष्टुप् उषस्यंत्वित्युक्तत्वा- दुषोदेवता प्रातरनुवाकेउषस्येक्रतौत्रैष्टुभेछन्दसिआंश्विनशस्त्रेचेदंसूक्तं सूत्रितंच-द्युतद्यामानमुषोवाजेनेति ।