ए॒तं ते॒ स्तोमं᳚ तुविजात॒ विप्रो॒ रथं॒ न धीर॒ः स्वपा᳚ अतक्षम् ।
यदीद᳚ग्ने॒ प्रति॒ त्वं दे᳚व॒ हर्या॒ः स्व᳚र्वतीर॒प ए᳚ना जयेम ॥
यदीद᳚ग्ने॒ प्रति॒ त्वं दे᳚व॒ हर्या॒ः स्व᳚र्वतीर॒प ए᳚ना जयेम ॥
पदपाठः (Word-by-word)
ए॒तम् । ते॒ । स्तोम᳚म् । तु॒वि॒॑जा॒त॒ । विप्रः᳚ । रथ᳚म् । न । धीरः᳚ । सु॒॑अपाः᳚ । अ॒त॒क्ष॒म् ।
यदि᳚ । इत् । अ॒ग्ने॒ । प्रति᳚ । त्वम् । दे॒व॒ । हर्याः᳚ । स्वः᳚॑वतीः । अ॒पः । ए॒न॒ । ज॒ये॒म॒ ॥
यदि᳚ । इत् । अ॒ग्ने॒ । प्रति᳚ । त्वम् । दे॒व॒ । हर्याः᳚ । स्वः᳚॑वतीः । अ॒पः । ए॒न॒ । ज॒ये॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे तुविजात बहुभावमापन्नाग्ने ते त्वदर्थमेतं स्तोममेतत्स्तोत्रं विप्रो मेधावी स्तोता रथं न रथमिव धीरः स्वपाः शोभनकर्माहमतक्षम् । समपादयम् । हे अग्ने देव त्वं यदीदेनं स्तोमं प्रति हर्याः । प्रतिकामयेथाः । तर्हि स्वर्वतोः स्वरणवतीर्व्याप्तिमतीरपि एनैनेन जयेम । प्राप्नुयाम । ॥ ११ ॥