तु॒वि॒ग्रीवो᳚ वृष॒भो वा᳚वृधा॒नो᳚॑श॒त्र्व१॒᳚र्यः सम᳚जाति॒ वेदः᳚ ।
इती॒मम॒ग्निम॒मृता᳚ अवोचन्ब॒र्हिष्म᳚ते॒ मन᳚वे॒ शर्म᳚ यंसद्ध॒विष्म᳚ते॒ मन᳚वे॒ शर्म᳚ यंसत् ॥
इती॒मम॒ग्निम॒मृता᳚ अवोचन्ब॒र्हिष्म᳚ते॒ मन᳚वे॒ शर्म᳚ यंसद्ध॒विष्म᳚ते॒ मन᳚वे॒ शर्म᳚ यंसत् ॥
पदपाठः (Word-by-word)
तु॒वि॒॑ग्रीवः᳚ । वृ॒ष॒भः । व॒वृ॒धा॒नः । अ॒श॒त्रु । अ॒र्यः । सम् । अ॒जा॒ति॒ । वेदः᳚ ।
इति᳚ । इ॒मम् । अ॒ग्निम् । अ॒मृताः᳚ । अ॒वो॒च॒न् । ब॒र्हिष्म᳚ते । मन᳚वे । शर्म᳚ । यं॒स॒त् । ह॒विष्म᳚ते । मन᳚वे । शर्म᳚ । यं॒स॒त् ॥
इति᳚ । इ॒मम् । अ॒ग्निम् । अ॒मृताः᳚ । अ॒वो॒च॒न् । ब॒र्हिष्म᳚ते । मन᳚वे । शर्म᳚ । यं॒स॒त् । ह॒विष्म᳚ते । मन᳚वे । शर्म᳚ । यं॒स॒त् ॥
सायणभाष्यम् (Sayana Commentary)
तुविग्रीवो बहुज्वालः प्रभूतग्रिवो वा वृषभो वर्षिता कामानां ववृधानो वर्धमानोऽब्निरर्योऽरेर्वेदो धनमतत्ट्रकण्टकं समजाति । संयोजयति । इतीममर्थमग्निममृता अन्ये देवा आवोचन् । यस्मादेवं तस्माद्बर्हिष्मते यागवते मनवे मनुष्याय यजमानाय शर्म सुखं यं नत् । यच्छतु । हविष्मते च शर्म यंसत् ॥ १२ ॥