वि ज्योति᳚षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा᳚नि कृणुते महि॒त्वा ।
प्रादे᳚वीर्मा॒याः स᳚हते दु॒रेवा॒ः शिशी᳚ते॒ शृङ्गे॒ रक्ष᳚से वि॒निक्षे᳚ ॥
प्रादे᳚वीर्मा॒याः स᳚हते दु॒रेवा॒ः शिशी᳚ते॒ शृङ्गे॒ रक्ष᳚से वि॒निक्षे᳚ ॥
पदपाठः (Word-by-word)
वि । ज्योति᳚षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्निः । आ॒विः । विश्वा᳚नि । कृ॒णु॒ते॒ । म॒हि॒॑त्वा ।
प्र । अदे᳚वीः । मा॒याः । स॒ह॒ते॒ । दुः॒॑एवाः᳚ । शिशी᳚ते । शृङ्गे॒ इति᳚ । रक्ष᳚से । वि॒॑निक्षे᳚ ॥
प्र । अदे᳚वीः । मा॒याः । स॒ह॒ते॒ । दुः॒॑एवाः᳚ । शिशी᳚ते । शृङ्गे॒ इति᳚ । रक्ष᳚से । वि॒॑निक्षे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निर्ज्योतिषा तेजसा बृहता महता वि भाति । विशेषेण दीप्यते । अथ तथाभूतः सन् महित्वा स्वमहत्त्वेन विश्वानि सर्वाणि पदार्थाजातान्याविष्कृणुते । प्रकटीकरोति । एवं प्रवृद्धोऽग्निरदेवीरदेवनशीला असुरीर्माया दुरेवा दुःखगमनाः प्रसहते । अभिभवति । किञ्च शिशीते । तीक्ष्णीकरोति । शृङ्गे शृङ्गाणि । शृङ्गसदृशीर्हिंसिका वा ज्वालाः शिशीते । तीक्ष्णीकरोति । किमर्थम् । रक्षसे विनिक्षे रक्षसो नाशाय । निश्यति शृङ्गे रक्षसो विनिक्षणनाय । नि. ४-१८ । इति यास्कः ॥ ९ ॥