हिर᳚ण्यदन्तं॒ शुचि᳚वर्णमा॒रात्क्षेत्रा᳚दपश्य॒मायु᳚धा॒ मिमा᳚नम् ।
द॒दा॒नो अ᳚स्मा अ॒मृतं᳚ वि॒पृक्व॒त्किं माम᳚नि॒न्द्राः कृ᳚णवन्ननु॒क्थाः ॥
द॒दा॒नो अ᳚स्मा अ॒मृतं᳚ वि॒पृक्व॒त्किं माम᳚नि॒न्द्राः कृ᳚णवन्ननु॒क्थाः ॥
पदपाठः (Word-by-word)
हिर᳚ण्य॑दन्तम् । शुचि᳚॑वर्णम् । आ॒रात् । क्षेत्रा᳚त् । अ॒प॒श्य॒म् । आयु᳚धा । मिमा᳚नम् ।
द॒दा॒नः । अ॒स्मै॒ । अ॒मृत᳚म् । वि॒पृक्व᳚त् । किम् । माम् । अ॒नि॒न्द्राः । कृ॒ण॒व॒न् । अ॒नु॒क्थाः ॥
द॒दा॒नः । अ॒स्मै॒ । अ॒मृत᳚म् । वि॒पृक्व᳚त् । किम् । माम् । अ॒नि॒न्द्राः । कृ॒ण॒व॒न् । अ॒नु॒क्थाः ॥
सायणभाष्यम् (Sayana Commentary)
हिरण्यदन्तं हिरण्यसदृशदन्तस्थानीयज्वालोपेतं शुचिर्णं प्रदीप्तवर्णमायुधायुधान्यायुधस्थानीयान् स्फुलिङ्गान् ज्वाला वा मिमानं निर्मिमाणमग्निमारात्समीपे क्षेत्रात् क्षेत्रे देशेऽपश्यम् । पश्येयम् । एवं वृशः कामयते । अहमस्मा अग्नयेऽमृतमविनाश्यमृतत्वसाधनं वा विपृक्वत्सर्वतो व्याप्तं हविः स्तोत्रं वा ददानः । दातास्मि । मामनिन्द्राः । इन्द्रः परमैश्वर्योऽग्निः । तद्रहिता अनिन्द्राः । इन्द्रमयजन्त इत्यर्थः । अनुक्था अस्तुतय इन्द्रमस्तुवन्तश्च किं कृणवन् । किं कुर्युः ॥ ३ ॥