श्रवणम्

5.57.3
धू॒नु॒थ द्यां पर्व᳚तान्दा॒शुषे॒ वसु॒ नि वो॒ वना᳚ जिहते॒ याम᳚नो भि॒या ।
को॒पय᳚थ पृथि॒वीं पृ᳚श्निमातरः शु॒भे यदु᳚ग्रा॒ः पृष᳚ती॒रयु᳚ग्ध्वम् ॥
▶ पदपाठः (Word-by-word)
धू॒नु॒थ । द्याम् । पर्व᳚तान् । दा॒शुषे᳚ । वसु᳚ । नि । वः॒ । वना᳚ । जि॒ह॒ते॒ । याम᳚नः । भि॒या ।
को॒पय᳚थ । पृ॒थि॒वीम् । पृ॒श्नि॒॑मा॒त॒रः॒ । शु॒भे । यत् । उ॒ग्राः॒ । पृष᳚तीः । अयु᳚ग्ध्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः द्यांदिवीत्यर्थः पर्वतान् मेघान् दाशुषे हविर्दात्रेयजमानाय वसु धनानिच धूनुथ प्रापयथ वोयुष्माकं यामनः गमनस्यभिया- भीत्या वना वनानि वृक्षादिसमूहानि निजिहते नितरांकंपते अवनताभृशंशंसंतीत्यर्थः हेपृश्निमातरः पृश्नेःपुत्राः पृश्नियैवैपयसोमरुतोजा- ताइतिहिश्रुतिः । हेमरुतः पृथिवीं कोपयथ अभिवृष्ट्या क्षोभयथ हेउग्राउद्गूर्णबलाः यूयं यद्यदा शुभे उदकार्थं पृषतीर्युष्मदीयाअश्वाः अयुग्ध्वं योजयथ तदा कोपयथपृथिवीं ॥ ३ ॥