श्रवणम्

5.77.4
यो भूयि᳚ष्ठं॒ नास᳚त्याभ्यां वि॒वेष॒ चनि᳚ष्ठं पि॒त्वो रर᳚ते विभा॒गे ।
स तो॒कम᳚स्य पीपर॒च्छमी᳚भि॒रनू᳚र्ध्वभास॒ः सद॒मित्तु᳚तुर्यात् ॥
▶ पदपाठः (Word-by-word)
यः । भूयि᳚ष्ठम् । नास᳚त्याभ्याम् । वि॒वेष᳚ । चनि᳚ष्ठम् । पि॒त्वः । रर᳚ते । वि॒॑भा॒गे ।
सः । तो॒कम् । अ॒स्य॒ । पी॒प॒र॒त् । शमी᳚भिः । अनू᳚र्ध्व॑भासः । सद᳚म् । इत् । तु॒तु॒र्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयजमानोविभागेहविर्विभागवतियागे नासत्याभ्यामश्विभ्यां भूयिष्ठं चनिष्ठं चनइत्यन्ननाम बह्वन्नकर्म विवेष करोति पित्वः कर्म- णिषष्ठी अन्नंच ररते ददाति सयजमानोस्यात्मनएवतोकंपुत्रं पीपरत् पालयेत् शमीभिः कर्मभिः अनूर्ध्वभासः अनुन्नतेजस्कान् यद्वोर्ध्वभा- सःअग्नयः अग्निरहितानयष्ठॄन् सदमित् सदैव तुतुर्यात् हिंस्यात् ॥ ४ ॥