श्रवणम्

5.67.4
ते हि स॒त्या ऋ᳚त॒स्पृश᳚ ऋ॒तावा᳚नो॒ जने᳚जने ।
सु॒नी॒थासः᳚ सु॒दान᳚वों॒॑होश्चि᳚दुरु॒चक्र᳚यः ॥
▶ पदपाठः (Word-by-word)
ते । हि । स॒त्याः । ऋ॒त॒॑स्पृशः᳚ । ऋ॒त॑वा᳚नः । जने᳚॑जने ।
सु॒॑नी॒थासः᳚ । सु॒॑दान᳚वः । अं॒होः । चि॒त् । उ॒रु॒॑चक्र᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेहि तेखलु सत्याः सत्यभुताः स्त्यफलावा ऋतस्पृशौदकस्पृशत्वस्यकतांरः ऋतावानोयज्ञवन्तः जनेजने सर्वेषुयजमानेषु सुनीथासः सुनयनाः सुदानवः सुदानाः हीतिप्रसिद्धवाची सर्वत्रसंबन्धनीयः एवंमहानुभावावरुणादयः अंहोश्चित् चिदप्यर्थे पापिनोपिस्वस्तोतुरुरु- चक्रयः प्रभूतधनादिकर्तारः ॥ ४ ॥