विश्वे॒ हि वि॒श्ववे᳚दसो॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
व्र॒ता प॒देव᳚ सश्चिरे॒ पान्ति॒ मर्त्यं᳚ रि॒षः ॥
व्र॒ता प॒देव᳚ सश्चिरे॒ पान्ति॒ मर्त्यं᳚ रि॒षः ॥
पदपाठः (Word-by-word)
विश्वे᳚ । हि । वि॒श्व॑वे᳚दसः । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
व्र॒ता । प॒दा॑इ᳚व । स॒श्चि॒रे॒ । पान्ति᳚ । मर्त्य᳚म् । रि॒षः ॥
व्र॒ता । प॒दा॑इ᳚व । स॒श्चि॒रे॒ । पान्ति᳚ । मर्त्य᳚म् । रि॒षः ॥
सायणभाष्यम् (Sayana Commentary)
विश्वेहि सर्वेपि हीतिअप्यर्थे विश्ववेदसः सर्वविदः सर्वधनावा वरुणोमित्रोर्यमाचैतेत्रयः सर्वे व्रतास्मदीयानिकर्माणि पदेव स्थाना- नीव सश्चिरे संगताभवन्ति आगत्यच मां मर्त्यं रिषोहिंसकात् पान्ति रक्षन्ति ॥ ३ ॥