श्रवणम्

5.51.15
स्व॒स्ति पन्था॒मनु᳚ चरेम सूर्याचन्द्र॒मसा᳚विव ।
पुन॒र्दद॒ताघ्न᳚ता जान॒ता सं ग᳚मेमहि ॥
▶ पदपाठः (Word-by-word)
स्व॒स्ति । पन्था᳚म् । अनु᳚ । च॒रे॒म॒ । सू॒र्या॒च॒न्द्र॒मसौ᳚॑इव ।
पुनः᳚ । दद᳚ता । अघ्न᳚ता । जा॒न॒ता । सम् । ग॒मे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पन्थां पन्थानं स्वस्ति क्षेमेणानुचरेम सूर्याचन्द्रमसाविवतौ यथानिरालंबेमार्गे राक्षसादिभिरनुपद्रुतौसंचरतस्तद्वत् किंच वयं प्रवसन्तः पुनर्ददताभिमतं अघ्नता चिरकालविलंबकोपेनाहिंसता जानताअविस्मरतामदीयश्चिरकालंगतः कोयमितिसन्देहमकुर्वतामदी- योयमितिबुध्यमानेनेत्यर्थः उक्तलक्षणेन बन्धुजनेन संगमेहि यद्वा पूर्वार्धं प्रवसतांवाक्यं उत्तरार्धं बन्धूनां वयंबन्धवः ददताअभिमतमुपा- र्जितं यच्छता अघ्नता प्रयासकोपेन अहिंसताजानता सस्नेहमधिगच्छाता प्रवसता संगमेमहि ॥ १५ ॥

प्रश्यावाश्वेतिसप्तदशर्चमष्टमंसूक्तं अत्रेयमनुक्रमणिका-प्रश्यावाश्वत्र्यूनाश्यावाश्वोमारुतंहतत्पंक्तिः षष्ठ्यन्त्याचेति । आत्रेयःश्यावा- श्वऋषिः हतदितिप्रयोगादिदमादीनिदशसूक्तानि मरुद्देवत्यानि षष्ठीसप्तदशीचपंक्त्यौ शिष्टाः पंक्त्यंतपरिभाषयानुष्टुभः गतोविनियोगः ।