अ॒द॒त्र॒या द᳚यते॒ वार्या᳚णि पू॒षा भगो॒ अदि᳚ति॒र्वस्त᳚ उ॒स्रः ।
इन्द्रो॒ विष्णु॒र्वरु᳚णो मि॒त्रो अ॒ग्निरहा᳚नि भ॒द्रा ज᳚नयन्त द॒स्माः ॥
इन्द्रो॒ विष्णु॒र्वरु᳚णो मि॒त्रो अ॒ग्निरहा᳚नि भ॒द्रा ज᳚नयन्त द॒स्माः ॥
पदपाठः (Word-by-word)
अ॒द॒त्र॒॑या । द॒य॒ते॒ । वार्या᳚णि । पू॒षा । भगः᳚ । अदि᳚तिः । वस्ते᳚ । उ॒स्रः ।
इन्द्रः᳚ । विष्णुः᳚ । वरु᳚णः । मि॒त्रः । अ॒ग्निः । अहा᳚नि । भ॒द्रा । ज॒न॒य॒न्त॒ । द॒स्माः ॥
इन्द्रः᳚ । विष्णुः᳚ । वरु᳚णः । मि॒त्रः । अ॒ग्निः । अहा᳚नि । भ॒द्रा । ज॒न॒य॒न्त॒ । द॒स्माः ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निरदत्रया अदनीयानि अदेरौणादिकोऽत्रप्रत्ययः सुपांसुलुगितियाजादेशः अथवा अत्तीत्यदत्राजिह्वातयावायाणि वरणीयानि काष्ठानि दयते दयतिरनेककर्मा अत्रदहने वर्तते दहतीत्यर्थः सामर्थ्यादग्निरितिगम्यते यद्वा अदनीयानि वरणीयानि अन्नानि दयते ददा- तियजमानाय दयदानगतिहिंसाबलाख्यानेषु दीदृशोग्निः पूषा पोषकः भगोभजनीयः अदितिरखंडनीयः यद्वा पूषदयस्त्रयोपिप्रत्येकं अदनीयानि वार्याणिचान्नानिदयते उस्रः सूर्योवस्तेआच्छादयति सामर्थ्यात्तेजांसि इन्द्रादयः पंचापिदेवाः दस्माः दर्शनीयाः अहानि सर्वा- ण्यागन्तॄणि भद्रा शोभनीयानि जनयन्त जनयन्ति दिवसानां यागदानादिविशिष्टत्वमेवभद्रत्वम् ॥ ३ ॥