श्रवणम्

5.49.4
तन्नो᳚ अन॒र्वा स᳚वि॒ता वरू᳚थं॒ तत्सिन्ध᳚व इ॒षय᳚न्तो॒ अनु᳚ ग्मन् ।
उप॒ यद्वोचे᳚ अध्व॒रस्य॒ होता᳚ रा॒यः स्या᳚म॒ पत᳚यो॒ वाज᳚रत्नाः ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । अ॒न॒र्वा । स॒वि॒ता । वरू᳚थम् । तत् । सिन्ध᳚वः । इ॒षय᳚न्तः । अनु᳚ । ग्म॒न् ।
उप᳚ । यत् । वोचे᳚ । अ॒ध्व॒रस्य᳚ । होता᳚ । रा॒यः । स्या॒म॒ । पत᳚यः । वाज᳚॑रत्नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तत्प्रसिद्धं वरूथं वरणीयमस्मदभिमतंधनं नोस्मभ्यं अनर्वा अप्रत्यृतः केनाप्यतिरस्कृतः सवितादेवः प्रयच्छत्वितिशेषः तद्धनं सिन्धवः स्यन्दनशीलाइषय्न्तोगच्छन्त्योनद्यः अनु अनुसृत्य ग्मन् गच्छन्तु धनंदातुंगच्छन्त्वित्यर्थः यद्यस्मात् अध्वरस्य यागस्य होता होमनिष्पादकोहं उपवोचे उपेत्य ब्रवीमि तस्मात्तत्प्रयच्छन्त्वितिशेषः वयंचात्रयोरायोधनस्य बहुविधस्य पतयः स्वामिनः स्याम भवेम वाजरत्नाः अन्नेनबलेनवारमणीयाः अथवा यद्यस्माद्वोचेस्तौमि तस्मात्सविता नोवरूथमागच्छतु तस्मान्नद्यश्चनोवरूथं यज्ञमनुग्मन् अनुगच्छंत्वितिवायोज्यम् ॥ ४ ॥