श्रवणम्

5.73.9
स॒त्यमिद्वा उ᳚ अश्विना यु॒वामा᳚हुर्मयो॒भुवा᳚ ।
ता याम᳚न्याम॒हूत᳚मा॒ याम॒न्ना मृ᳚ळ॒यत्त᳚मा ॥
▶ पदपाठः (Word-by-word)
स॒त्यम् । इत् । वै । ऊं॒ इति᳚ । अ॒श्वि॒ना॒ । यु॒वाम् । आ॒हुः॒ । म॒यः॒॑भुवा᳚ ।
ता । याम᳚न् । या॒म॒॑हूत᳚मा । याम᳚न् । आ । मृ॒ळ॒यत्॑त᳚मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विना युवांसत्यमित् सत्यमेव वाइतिपदपूरणः मयोभुवा सुखस्यभावयितारावाहुःपुराविदः ता तौ सुखकरत्वेनप्रसिद्धौ युवां या- मन् यज्ञे यामहूतमागमनार्थं भृशमाह्वातव्यौभवतमितिशेषः यामन्नस्मद्यज्ञे अस्मदर्थागमनेवा मृळयत्तमात्र अतिशयेनसुखयितारौभव- तम् ॥ ९ ॥