श्रवणम्

5.31.12 समानपद
आयं ज᳚ना अभि॒चक्षे᳚ जगा॒मेन्द्र॒ः सखा᳚यं सु॒तसो᳚ममि॒च्छन् ।
वद॒न्ग्रावाव॒ वेदिं᳚ भ्रियाते॒ यस्य᳚ जी॒रम᳚ध्व॒र्यव॒श्चर᳚न्ति ॥
▶ पदपाठः (Word-by-word)
आ । अ॒यम् । ज॒नाः॒ । अ॒भि॒॑चक्षे᳚ । ज॒गा॒म॒ । इन्द्रः᳚ । सखा᳚यम् । सु॒त॑सो᳚मम् । इ॒च्छन् ।
वद᳚न् । ग्रावा᳚ । अव᳚ । वेदि᳚म् । भ्रि॒या॒ते॒ । यस्य᳚ । जी॒रम् । अ॒ध्व॒र्यवः᳚ । चर᳚न्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेजनाः अभिचक्षे युष्मानभिद्रष्टुमयमिन्द्रः सखायंस्तोतारंसुतसोमं अभिषुतसोमंयजमानं इच्छन्नभिलषन् आजगामागच्छति अध्वर्यवः यस्यग्राव्णः जीरंक्षेपणंप्रेरणंचरन्तिकुर्वन्तिसग्रावा सोमाभिषवपाषाणः वदन् शब्दंकुर्वन् वेदिं अवभ्रियाते अभिह्रियते ॥ १२ ॥