अन᳚वस्ते॒ रथ॒मश्वा᳚य तक्ष॒न्त्वष्टा॒ वज्रं᳚ पुरुहूत द्यु॒मन्त᳚म् ।
ब्र॒ह्माण॒ इन्द्रं᳚ म॒हय᳚न्तो अ॒र्कैरव᳚र्धय॒न्नह᳚ये॒ हन्त॒वा उ᳚ ॥
ब्र॒ह्माण॒ इन्द्रं᳚ म॒हय᳚न्तो अ॒र्कैरव᳚र्धय॒न्नह᳚ये॒ हन्त॒वा उ᳚ ॥
पदपाठः (Word-by-word)
अन᳚वः । ते॒ । रथ᳚म् । अश्वा᳚य । त॒क्ष॒न् । त्वष्टा᳚ । वज्र᳚म् । पु॒रु॒॑हू॒त॒ । द्यु॒॑मन्त᳚म् ।
ब्र॒ह्माणः᳚ । इन्द्र᳚म् । म॒हय᳚न्तः । अ॒र्कैः । अव᳚र्धयन् । अह᳚ये । हन्त॒वै । ऊं॒ इति᳚ ॥
ब्र॒ह्माणः᳚ । इन्द्र᳚म् । म॒हय᳚न्तः । अ॒र्कैः । अव᳚र्धयन् । अह᳚ये । हन्त॒वै । ऊं॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेपुरुहूत बहुभिराहूतेन्द्र तेत्वदीयंरथं अश्वाय अश्वाभ्यांसंयोगार्हं अनवः मनवोमनुष्याऋभवः तक्षन्नतक्षन्नकुर्वन् त्वष्टाचत्वदीयंवज्रं द्युमन्तंदीप्तिमन्तमकरोत् उ अपिच महयन्तः इन्द्रंपूजयन्तोब्रह्माणोङ्गिरसः परिवृढामरुतोवा अहये अहिंवृत्रंहन्तवै हन्तुं अर्कैः स्तोत्रैरवर्धयन् वर्धितवन्तः ॥ ४ ॥