इन्द्रा᳚कुत्सा॒ वह᳚माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे᳚ वहन्तु ।
निः षी᳚म॒द्भ्यो धम᳚थो॒ निः ष॒धस्था᳚न्म॒घोनो᳚ हृ॒दो व᳚रथ॒स्तमां᳚सि ॥
निः षी᳚म॒द्भ्यो धम᳚थो॒ निः ष॒धस्था᳚न्म॒घोनो᳚ हृ॒दो व᳚रथ॒स्तमां᳚सि ॥
पदपाठः (Word-by-word)
इन्द्रा᳚कुत्सा । वह᳚माना । रथे᳚न । आ । वा॒म् । अत्याः᳚ । अपि᳚ । कर्णे᳚ । व॒ह॒न्तु॒ ।
निः । सी॒म् । अ॒त्॑भ्यः । धम᳚थः । निः । स॒ध॑स्था᳚त् । म॒घोनः᳚ । हृ॒दः । व॒र॒थः॒ । तमां᳚सि ॥
निः । सी॒म् । अ॒त्॑भ्यः । धम᳚थः । निः । स॒ध॑स्था᳚त् । म॒घोनः᳚ । हृ॒दः । व॒र॒थः॒ । तमां᳚सि ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्राकुत्सा इन्द्राकुत्सौ रथेनवहमानावहमानौ उह्यमानौ वां युवां अत्याःअश्वाः कर्णेपि स्तोत्राणिकृणोतिकरोतीतिकर्णः स्तोता यजमानोवा तत्समीपेअपीतियावत् आवहन्तु आसमन्ताद्वाहकाभवन्तु युवामपि अद्भ्योप्सुप्रविष्टंसीमेनंशुष्णासुरंनिर्धमथः अबाधेथां सीमिति शुष्णासुरोबुद्धिस्थः परामृश्यते सधस्थात् स्वकीयात् स्थानात् निरबाधेथाम् मघोनोमघवतोहविष्मतोयजमनस्य -हृदोहृदयात्तमांस्यज्ञानरूपाणि पापानि वरथोनिवारय थः ॥ ९ ॥