आ प्र द्र᳚व हरिवो॒ मा वि वे᳚न॒ः पिश᳚ङ्गराते अ॒भि नः᳚ सचस्व ।
न॒हि त्वदि᳚न्द्र॒ वस्यो᳚ अ॒न्यदस्त्य᳚मे॒ना{4}श्चि॒ज्जनि᳚वतश्चकर्थ ॥
न॒हि त्वदि᳚न्द्र॒ वस्यो᳚ अ॒न्यदस्त्य᳚मे॒ना{4}श्चि॒ज्जनि᳚वतश्चकर्थ ॥
पदपाठः (Word-by-word)
आ । प्र । द्र॒व॒ । ह॒रि॒॑वः॒ । मा । वि । वे॒नः॒ । पिश᳚ङ्ग॑राते । अ॒भि । नः॒ । स॒च॒स्व॒ ।
न॒हि । त्वत् । इ॒न्द्र॒ । वस्यः᳚ । अ॒न्यत् । अस्ति᳚ । अ॒मे॒नान् । चि॒त् । जनि᳚॑वतः । च॒क॒र्थ॒ ॥
न॒हि । त्वत् । इ॒न्द्र॒ । वस्यः᳚ । अ॒न्यत् । अस्ति᳚ । अ॒मे॒नान् । चि॒त् । जनि᳚॑वतः । च॒क॒र्थ॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेहरिवः हरिवन्निन्द्र त्वं आ अस्मानभिमुखं प्रद्रव प्रकर्षेणगच्छ किन्तु माविवेनः वेनतिःकान्तिकर्मा अस्मासुविगतकामोमाभूः किंच हेपिशंगराते बहुरूपधनेन्द्र नोस्मानभिसचस्व अभिसेवस्व अपिच हेइन्द्र वस्योवसीयः श्रेयस्करं त्वत् त्वत्तः अन्यन्नह्यस्ति अन्यद्वसुजातंनास्ति अमेनांश्चित् मेनाशब्दःस्त्रीवाची अपगतस्त्रीकांश्चित् जनिवतः जायावतश्चकर्थ करोषि ॥ २ ॥