वात᳚स्य यु॒क्तान्त्सु॒युज᳚श्चि॒दश्वा᳚न्क॒विश्चि᳚दे॒षो अ᳚जगन्नव॒स्युः ।
विश्वे᳚ ते॒ अत्र᳚ म॒रुत॒ः सखा᳚य॒ इन्द्र॒ ब्रह्मा᳚णि॒ तवि᳚षीमवर्धन् ॥
विश्वे᳚ ते॒ अत्र᳚ म॒रुत॒ः सखा᳚य॒ इन्द्र॒ ब्रह्मा᳚णि॒ तवि᳚षीमवर्धन् ॥
पदपाठः (Word-by-word)
वात᳚स्य । यु॒क्तान् । सु॒॑युजः᳚ । चि॒त् । अश्वा᳚न् । क॒विः । चि॒त् । ए॒षः । अ॒ज॒ग॒न् । अ॒व॒स्युः ।
विश्वे᳚ । ते॒ । अत्र᳚ । म॒रुतः᳚ । सखा᳚यः । इन्द्र᳚ । ब्रह्मा᳚णि । तवि᳚षीम् । अ॒व॒र्ध॒न् ॥
विश्वे᳚ । ते॒ । अत्र᳚ । म॒रुतः᳚ । सखा᳚यः । इन्द्र᳚ । ब्रह्मा᳚णि । तवि᳚षीम् । अ॒व॒र्ध॒न् ॥
सायणभाष्यम् (Sayana Commentary)
कविश्चित्प्राज्ञोपि अवस्युरेतन्नामकएषमंत्रद्रष्टावा तस्यवायोर्वेगेनयुक्तान् संयुक्तान् सुयुजश्चित् सुष्ठुयोजनीयानश्वान् अजगन् प्राप्नोत् अवस्योःसखायः विश्वेसर्वेमरुतोबहवः स्तोतारः हेइन्द्र अत्रास्मिन् लोके तेत्वदीयां तविषीं बलं ब्रह्माणि ब्रह्मभिःस्तोत्रैः अवर्धन्नवर्धयन् ॥ १० ॥