श्रवणम्

5.74.10
अश्वि᳚ना॒ यद्ध॒ कर्हि᳚ चिच्छुश्रू॒यात᳚मि॒मं हव᳚म् ।
वस्वी᳚रू॒ षु वां॒ भुजः᳚ पृ॒ञ्चन्ति॒ सु वां॒ पृचः᳚ ॥
▶ पदपाठः (Word-by-word)
अश्वि᳚ना । यत् । ह॒ । कर्हि᳚ । चि॒त् । शु॒श्रु॒यात᳚म् । इ॒मम् । हव᳚म् ।
वस्वीः᳚ । ऊं॒ इति᳚ । सु । वा॒म् । भुजः᳚ । पृ॒ञ्चन्ति᳚ । सु । वा॒म् । पृचः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विना युवां यद्ध यत्र कर्हिचित् स्थितवन्तौभवथः तत्र मे हवं आह्वानं शुश्रुयातं श्रृणुतं श्रुत्वागच्छतमित्यर्थः किमर्थमिति उच्यते वस्वीः प्रशस्याः भुजोधनानि हविर्लक्षणानि सु सुष्ठु वांयुवांपृंचन्ति मिश्रयन्तिप्राप्नुवन्ति उइतिपूरणः कीदृश्योभुजः वां युवां सु सुष्ठु पृचः संपर्चनाः युवांप्राप्तुं कामयमानाइत्यर्थः अथवा सुपृचः सुसंपर्चनाः स्तोतारोवस्वीर्भुजोवां सुष्ठुपृंचन्ति संपर्चयन्ति ॥ १० ॥

प्रतिप्रियतममितिनवर्चंतृतीयंसूक्तं अवस्युर्नामात्रेयऋषिः पंक्तिश्छन्दः अश्विनौदेवता अनुक्रान्तंच-प्रतिनवावस्युःपांक्तमिति । प्रात- रनुवाकेआश्विनेक्रतौपांक्तेछन्दसि आश्विनशस्त्रेचेदंसूक्तं प्रतिप्रियतममितिपांक्तमितिहिसूत्रितम् ।