श्रवणम्

5.74.7
को वा᳚म॒द्य पु᳚रू॒णामा व᳚व्ने॒ मर्त्या᳚नाम् ।
को विप्रो᳚ विप्रवाहसा॒ को य॒ज्ञैर्वा᳚जिनीवसू ॥
▶ पदपाठः (Word-by-word)
कः । वा॒म् । अ॒द्य । पु॒रू॒णाम् । आ । व॒व्ने॒ । मर्त्या᳚नाम् ।
कः । विप्रः᳚ । वि॒प्र॒॑वा॒ह॒सा॒ । कः । य॒ज्ञैः । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवाजिनीवसू अन्नवसू वांयुवां अद्यास्मिन् दिने पुरूणां मर्त्यानांमध्ये कआवव्रे सर्वतोभजति हेविप्रवाहसा विप्रैर्मेधाविभिर्वहनीयौ कोविप्रोमेधावीवव्ने कोयजमानोयज्ञैर्वव्ने अत्यन्तविलंबमसहमानःसन् पुनः पुनर्ब्रूते ॥ ७ ॥