श्रवणम्

5.64.2 समानपद
ता बा॒हवा᳚ सुचे॒तुना॒ प्र य᳚न्तमस्मा॒ अर्च᳚ते ।
शेवं॒ हि जा॒र्यं᳚ वां॒ विश्वा᳚सु॒ क्षासु॒ जोगु᳚वे ॥
▶ पदपाठः (Word-by-word)
ता । बा॒हवा᳚ । सु॒॑चे॒तुना᳚ । प्र । य॒न्त॒म् । अ॒स्मै॒ । अर्च᳚ते ।
शेव᳚म् । हि । जा॒र्य᳚म् । वा॒म् । विश्वा᳚सु । क्षासु᳚ । जोगु᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ युवां बाहवा बाहुना सुचेतुना सुष्ठुप्रज्ञात्रा प्रयासभूयस्त्वंजानतेत्यर्थः यद्यप्यात्मेवज्ञाता नहस्तः तथापि तद्धर्ममत्रारोप्यस्तूयते यद्वैतत्तावित्यस्यविशेषणं सुज्ञानावित्यर्थः शोभनहस्तेन अस्मैअर्चतेस्तुवते मह्यं प्रयन्तं अभिमतंसुखंगमयतं अन्तर्भावितण्यर्थोद्रष्टव्यः यमिर्दानकर्मावाद्रष्टव्यः प्रयच्छत्मित्यर्थः जार्यं स्तुत्यं शेवं सुखं वांयुवयोः संबन्धि युवाभ्यांकृतंवा विश्वासुसर्वासु क्षासु भूमिषु जोगुवे गच्छतिव्याप्नोति अवतेगवतइति गतिकर्मसुपाठात् अयमपिगतिकर्मा अथवा जोगुवे सर्वत्रशब्दयामीत्यर्थः ॥ २ ॥