श्रवणम्

5.64.3
यन्नू॒नम॒श्यां गतिं᳚ मि॒त्रस्य᳚ यायां प॒था ।
अस्य᳚ प्रि॒यस्य॒ शर्म॒ण्यहिं᳚सानस्य सश्चिरे ॥
▶ पदपाठः (Word-by-word)
यत् । नू॒नम् । अ॒श्याम् । गति᳚म् । मि॒त्रस्य᳚ । या॒या॒म् । प॒था ।
अस्य᳚ । प्रि॒यस्य᳚ । शर्म᳚णि । अहिं᳚सानस्य । स॒श्चि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् यदा नूनमिदानीं गतिं गमनमश्यांप्राप्नुयां यद्योगादनिघातः तदामित्रस्य मित्रभूतस्य पथा मार्गेण मित्रप्रापकेणमार्गेण यायां ग- च्छेयं मित्रोनयतुविद्वानित्यादिषुमित्रस्येष्टदेशगमयितृत्वंप्रसिद्धं नकेवलमहमेकएवगन्ता किन्तु सर्वेपितथागमन्नित्याह अस्यप्रियस्यमित्र- स्येत्यर्थः अहिंसानस्य अहिंसतः यतोयमहन्ता अतःप्रियइत्यर्थः तस्यशर्मणि सुखे गृहेस्थानेवा सश्चिरे संगताः ॥ ३ ॥