श्रवणम्

5.44.3
अत्यं᳚ ह॒विः स᳚चते॒ सच्च॒ धातु॒ चारि᳚ष्टगातु॒ः स होता᳚ सहो॒भरि᳚ः ।
प्र॒सर्स्रा᳚णो॒ अनु᳚ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो᳚ वि॒स्रुहा᳚ हि॒तः ॥
▶ पदपाठः (Word-by-word)
अत्य᳚म् । ह॒विः । स॒च॒ते॒ । सत् । च॒ । धातु᳚ । च॒ । अरि᳚ष्ट॑गातुः । सः । होता᳚ । स॒हः॒॑भरिः᳚ ।
प्र॒॑सर्स्रा᳚णः । अनु᳚ । ब॒र्हिः । वृषा᳚ । शिशुः᳚ । मध्ये᳚ । युवा᳚ । अ॒जरः᳚ । वि॒॑स्रुहा᳚ । हि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमाग्नेयी होतृत्वयुवत्वादिलिंगैः अयमग्निः अत्यं सततमतनार्हं हविराज्यादिकं सचते सेवते कीदृशंहविः सत् सत्फलसाधनत्वाद्धविरपिसत् धातुच धारकं सर्वस्यहूयमानस्यहविषः आदित्यद्वारावृष्टिसाधनत्वात् तयाचवृष्ट्या प्रजोत्पत्तेर्धारकत्वं तथाहि अग्नौप्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायतेवृष्टिर्वृष्टेरन्नंततः प्रजाइति । कीदृशोग्निः अरिष्टगातुः अहिंसितगमनः सतितस्यगमने यज्ञनिष्पत्त्याफलसिद्धेररिष्टगमनत्वं तदेवाह सः सखलु होता होमनिष्पादकः सहोभरिः बलस्यभर्ता बर्हिरनुप्रसर्स्राणः प्रकर्षेणसरन् वृषा वर्षकः फलस्य शिशुः सइवरक्षणीयः अप्रौढोवा युवा सर्वत्रमिश्रयिता अजरोजरारहितः विस्रुहा विस्रुहाणामोषधीनांमध्ये हितोनिहितः स्थापितः एवंभूतः सचते ॥ ३ ॥