श्रवणम्

5.44.8
ज्यायां᳚सम॒स्य य॒तुन᳚स्य के॒तुन᳚ ऋषिस्व॒रं च᳚रति॒ यासु॒ नाम᳚ ते ।
या॒दृश्मि॒न्धायि॒ तम᳚प॒स्यया᳚ विद॒द्य उ᳚ स्व॒यं वह᳚ते॒ सो अरं᳚ करत् ॥
▶ पदपाठः (Word-by-word)
ज्यायां᳚सम् । अ॒स्य । य॒तुन᳚स्य । के॒तुना᳚ । ऋ॒षि॒॑स्व॒रम् । च॒र॒ति॒ । यासु᳚ । नाम᳚ । ते॒ ।
या॒दृश्मि᳚न् । धायि᳚ । तम् । अ॒प॒स्यया᳚ । वि॒द॒त् । यः । ऊं॒ इति᳚ । स्व॒यम् । वह᳚ते । सः । अर᳚म् । क॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमाग्नेयीसौरीवा हेदेव ज्यायांसं अतिशयेनप्रवृद्धं अस्य यतुनस्य यततिर्गतिकर्मा गन्तुरस्य सूर्यस्य कर्मणिषष्ठ्यौ अमुं गन्तारं केतुना प्रज्ञापकेनकर्मणा उदयादिलक्षणेनविशिष्ठं ऋषिस्वरं ऋषिभिःस्तुत्यं त्वांचरतिगच्छति भजते यजमानः केनसाधनेन यासुस्तुतिषु तेत्वदीयं नामनमनं नामकंवारूपंवर्ततेताभिरित्यर्थः यद्वा अस्य यतुनस्य गमनशीलस्यतव केतुना तमोनिर्हरणादिकर्मणा विशिष्टंत्वांचरति यादृश्मिन् यादृशेकामेधायि धत्ते कर्तरिचिण् सामर्थ्यान्मनः गम्यते तंयथानिर्देशंप्रति निर्दिष्टव्यत्वात्ता- दृशमित्यर्थोज्ञातव्यः तादृशंकामं अपस्यया कर्मणा हविः स्तुत्यादिलक्षणेन विदत् विन्दते यउ यएव स्वयं अनन्यप्रेरितः सन् स्वमनीषयैव वहते धारयतिफलं सः अरं अलं अत्यर्थं करत् करोतीतिशेषः अथवा यउ यएव स्वयंवहते स्वयमेवानुतिष्ठति सोत्यर्थंकुर्यात् नह्यन्येनकारितंफलवद्भवति ॥ ८ ॥