स॒दा॒पृ॒णो य᳚ज॒तो वि द्विषो᳚ वधीद्बाहुवृ॒क्तः श्रु᳚त॒वित्तर्यो᳚ व॒ः सचा᳚ ।
उ॒भा स वरा॒ प्रत्ये᳚ति॒ भाति᳚ च॒ यदीं᳚ ग॒णं भज᳚ते सुप्र॒याव᳚भिः ॥
उ॒भा स वरा॒ प्रत्ये᳚ति॒ भाति᳚ च॒ यदीं᳚ ग॒णं भज᳚ते सुप्र॒याव᳚भिः ॥
पदपाठः (Word-by-word)
स॒दा॒॑पृ॒णः । य॒ज॒तः । वि । द्विषः᳚ । व॒धी॒त् । बा॒हु॒॑वृ॒क्तः । श्रु॒त॒॑वित् । तर्यः᳚ । वः॒ । सचा᳚ ।
उ॒भा । सः । वरा᳚ । प्रति᳚ । ए॒ति॒ । भाति᳚ । च॒ । यत् । ई॒म् । ग॒णम् । भज᳚ते । सु॒प्र॒याव᳚॑भिः ॥
उ॒भा । सः । वरा᳚ । प्रति᳚ । ए॒ति॒ । भाति᳚ । च॒ । यत् । ई॒म् । ग॒णम् । भज᳚ते । सु॒प्र॒याव᳚॑भिः ॥
सायणभाष्यम् (Sayana Commentary)
सदापृणः सर्वदादानशीलः एतन्नामा यजतोयष्टाच बाहुवृक्तः बाहुभ्यांवृक्तदर्भश्च श्रुतवित् श्रुत्रस्यवेत्ताच तर्यश्च एतेषांपंचानांपरस्परापेक्षयाप्रत्येकमेकवचनं ससऋषिर्विद्विषः शत्रून् वधीत् हिंस्यात् वोयुष्माकं सचा सहितः युष्माभिः सहितइत्यर्थः सऋषिः वरा श्रेष्ठौ उभा उभौ इहलोकपरलोकविषयौकामौ प्रत्येति अभिगच्छति भातिच यद्यस्मादीमेनंगणं देवसंघं सुप्रयावभिः सुष्ठ्रप्रकर्षेणमिश्रयद्भिः स्तोत्रैः भजते तस्मादेवंभातीति ॥ १२ ॥