श्रवणम्

5.44.4
प्र व᳚ ए॒ते सु॒युजो॒ याम᳚न्नि॒ष्टये॒ नीची᳚र॒मुष्मै᳚ य॒म्य᳚ ऋता॒वृधः᳚ ।
सु॒यन्तु᳚भिः सर्वशा॒सैर॒भीशु᳚भि॒ः क्रिवि॒र्नामा᳚नि प्रव॒णे मु᳚षायति ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । ए॒ते । सु॒॑युजः᳚ । याम᳚न् । इ॒ष्टये᳚ । नीचीः᳚ । अ॒मुष्मै᳚ । य॒म्यः᳚ । ऋ॒त॒॑वृधः᳚ ।
सु॒यन्तु᳚॑भिः । स॒र्व॒॑शा॒सैः । अ॒भीशु᳚॑भिः । क्रिविः᳚ । नामा᳚नि । प्र॒व॒णे । मु॒षा॒य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसौरीवा एतेरश्मयः सुयुजः सुष्ठुपरस्परंसंयुक्तायामन् यज्ञगमने इष्टये एषणाय नीचीर्नीचंगच्छन्तीतिशेषः अमुष्मै यजमानाय यम्योयम्याः गमनार्हाः अथवा यमोनियमितादित्यः तस्यसंबन्धिनः ऋतावृधः यज्ञस्यवर्धयितारश्च अयमादित्यः सुयन्तुभिः सुगमनैः सर्वशासैः सर्वस्यशासकैः अभीशुभीरश्मिभिः क्रिविः कर्ता नामानि नामकानिउदकानि प्रवणे निम्ने भूप्रदेशे मुषायति मुष्णातिआदत्तइत्यर्थः अथवाग्निनाआवाह्यस्याग्नेरेतेश्वाः इष्टये यज्ञगमनाय यामनि रथेसुयुजः प्रगच्छन्ति शिष्टंसमानं क्रिविः क्रिविसदृशोग्निः प्रवणे नामानिहवींष्युक्तलक्षणाभिः ज्वालाभिर्मुषायत्यादत्ते ॥ ४ ॥