श्रवणम्

5.81.2 समानपद
विश्वा᳚ रू॒पाणि॒ प्रति᳚ मुञ्चते क॒विः प्रासा᳚वीद्भ॒द्रं द्वि॒पदे॒ चतु᳚ष्पदे ।
वि नाक᳚मख्यत्सवि॒ता वरे॒ण्यो॑नु᳚ प्र॒याण᳚मु॒षसो॒ वि रा᳚जति ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚ । रू॒पाणि᳚ । प्रति᳚ । मु॒ञ्च॒ते॒ । क॒विः । प्र । अ॒सा॒वी॒त् । भ॒द्रम् । द्वि॒॑पदे᳚ । चतुः᳚॑पदे ।
वि । नाक᳚म् । अ॒ख्य॒त् । स॒वि॒ता । वरे᳚ण्यः । अनु᳚ । प्र॒॑यान᳚म् । उ॒षसः᳚ । वि । रा॒ज॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविः मेधावी सविता विश्वा सर्वाणिरूपाणि आत्मनि प्रतिमुंचते बध्नातिधारयति किंच भद्रं कल्याणं गमनादिविषयं प्रासावीत् अनुजानाति कस्मै द्विपदे मनुष्याय चतुष्पदे गवाश्वादिकाय किंच सविता सर्वस्यप्रेरकोदेवोवेरण्योवरणीयःसन् व्यख्यत् ख्यापयति प्रकाशयति किं नाकं नास्मिन्नकंदुःखमस्तीतिनाकः स्वर्गः यजमानार्थं स्वर्गंप्रकाशयतीत्यर्थः सदेवः उषसं प्रयाणमुदयमनु विराजति प्रकाशते सवितुरुदयात्पूर्वंह्युषाउदेति ॥ २ ॥