श्रवणम्

5.58.8
ह॒ये नरो॒ मरु᳚तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒ अमृ᳚ता॒ ऋत᳚ज्ञाः ।
सत्य᳚श्रुत॒ः कव᳚यो॒ युवा᳚नो॒ बृह᳚द्गिरयो बृ॒हदु॒क्षमा᳚णाः ॥
▶ पदपाठः (Word-by-word)
ह॒ये । नरः᳚ । मरु᳚तः । मृ॒ळत᳚ । नः॒ । तुवि᳚॑मघासः । अमृ᳚ताः । ऋत᳚॑ज्ञाः ।
सत्य᳚॑श्रुतः । कव᳚यः । युवा᳚नः । बृह᳚त्॑गिरयः । बृ॒हत् । उ॒क्षमा᳚णाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हयेनरइत्यष्टमीगता ॥ ८ ॥

प्रवःस्पडितिअष्टर्चंतृतीयंसूक्तं श्यावाश्वस्यार्षंमारुतम् अष्टमीत्रिष्टुप् शिष्टाःसप्तजगत्यः प्रवस्त्रिष्टुबंतमित्यन् क्रमणिका । विनियोगो- लैंगिकः ।