यत्प्राया᳚सिष्ट॒ पृष᳚तीभि॒रश्वै᳚र्वीळुप॒विभि᳚र्मरुतो॒ रथे᳚भिः ।
क्षोद᳚न्त॒ आपो᳚ रिण॒ते वना॒न्यवो॒स्रियो᳚ वृष॒भः क्र᳚न्दतु॒ द्यौः ॥
क्षोद᳚न्त॒ आपो᳚ रिण॒ते वना॒न्यवो॒स्रियो᳚ वृष॒भः क्र᳚न्दतु॒ द्यौः ॥
पदपाठः (Word-by-word)
यत् । प्र । अया᳚सिष्ट । पृष᳚तीभिः । अश्वैः᳚ । वी॒ळु॒प॒वि॑भिः᳚ । म॒रु॒तः॒ । रथे᳚भिः ।
क्षोद᳚न्ते । आपः᳚ । रि॒ण॒ते । वना᳚नि । अव᳚ । उ॒स्रियः᳚ । वृ॒ष॒भः । क्र॒न्द॒तु॒ । द्यौः ॥
क्षोद᳚न्ते । आपः᳚ । रि॒ण॒ते । वना᳚नि । अव᳚ । उ॒स्रियः᳚ । वृ॒ष॒भः । क्र॒न्द॒तु॒ । द्यौः ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः यद्यदा प्रायासिष्ट प्रगच्छथ पृषतीभिः पृषत्संज्ञकैरश्वैः वाहनसाधनैरश्वैः अश्वशब्दोत्रवाहनसामान्यवचनः अतः पुल्लिंगता तथान्यत्र यदश्वान् धूर्षुपृषतीरयुग्ध्वम् । रोहिदश्वोजाश्वइतिसामानाधिकरण्यप्रयोगः एवंभूताश्वयुक्तैः वीळुपविभिः दृढरथनेमिभिः रथे- भिः प्रायासिष्ट यद्वाश्वैरथैश्चसह मरुतोयदाप्रायासिष्ट तदा आपः क्षोदन्ते क्षरन्ति वनानि वृक्षसमूहाः रिणते हिंस्यन्ते वेगेनभज्यन्ते उस्रियः उस्राः सूर्यरश्मयः तत्संबन्धीपर्जन्यः वृषभोपांवर्षिता द्यौर्द्योतमानः अवक्रन्द्तु अवाङ्मुखंशब्दयतुवृष्ट्यर्थम् ॥ ६ ॥