प्रथि᳚ष्ट॒ याम᳚न्पृथि॒वी चि᳚देषां॒ भर्ते᳚व॒ गर्भं॒ स्वमिच्छवो᳚ धुः ।
वाता॒न्ह्यश्वा᳚न्धु॒र्या᳚युयु॒ज्रे व॒र्षं स्वेदं᳚ चक्रिरे रु॒द्रिया᳚सः ॥
वाता॒न्ह्यश्वा᳚न्धु॒र्या᳚युयु॒ज्रे व॒र्षं स्वेदं᳚ चक्रिरे रु॒द्रिया᳚सः ॥
पदपाठः (Word-by-word)
प्रथि᳚ष्ट । याम᳚न् । पृ॒थि॒वी । चि॒त् । ए॒षा॒म् । भर्ता᳚॑इव । गर्भ᳚म् । स्वम् । इत् । शवः᳚ । धुः॒ ।
वाता᳚न् । हि । अश्वा᳚न् । धु॒रि । आ॒॑यु॒यु॒ज्रे । व॒र्षम् । स्वेद᳚म् । च॒क्रि॒रे॒ । रु॒द्रिया᳚सः ॥
वाता᳚न् । हि । अश्वा᳚न् । धु॒रि । आ॒॑यु॒यु॒ज्रे । व॒र्षम् । स्वेद᳚म् । च॒क्रि॒रे॒ । रु॒द्रिया᳚सः ॥
सायणभाष्यम् (Sayana Commentary)
एषांमरुतां यामन् यामनि गमनेपृथिवी भूमिः चिदितिपूरणः प्रथिष्ट प्रख्याताभवत् गर्भयोग्याभवदित्यर्थः तेचमरुतोभर्ता लौकिकः- पतिः गर्भमिव भार्यायाः तथाभूम्याः स्वमित् स्वभूतंगर्भं गर्भस्थानीयं शवः उदकं धुः स्थापितवन्तः हियस्मात् वातान् गन्तॄनश्वान् धुरि रथसबन्धिन्यां आयुयुज्रे आयोजितवन्तः तस्माद्वर्षं स्वेदं स्वेदस्थानीयं वृष्टिसंस्त्यायं चक्रिरे कुर्वन्ति रुद्रियासोरुद्रपुत्राः ॥ ७ ॥