श्रवणम्

5.58.2
त्वे॒षं ग॒णं त॒वसं॒ खादि᳚हस्तं॒ धुनि᳚व्रतं मा॒यिनं॒ दाति᳚वारम् ।
म॒यो॒भुवो॒ ये अमि᳚ता महि॒त्वा वन्द᳚स्व विप्र तुवि॒राध᳚सो॒ नॄन् ॥
▶ पदपाठः (Word-by-word)
त्वे॒षम् । ग॒णम् । त॒वस᳚म् । खादि᳚॑हस्तम् । धुनि᳚॑व्रतम् । मा॒यिन᳚म् । दाति᳚॑वारम् ।
म॒यः॒॑भुवः᳚ । ये । अमि᳚ताः । म॒हि॒॑त्वा । वन्द᳚स्व । वि॒प्र॒ । तु॒वि॒॑राध᳚सः । नॄन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वेषं दीप्तंगणं मारुतं तवसं बलवन्तं खादिहस्तं कटकहस्तं धुनिव्रतं कंपयितृकर्माणं मायिनं प्रज्ञावन्तं दातिवारं दत्तधनं हेविप्र होतः वंदस्व स्तुहीतिसंबन्धः येमरुतोमयोभुवः सुखस्यभावयितारः महित्वा महत्त्वेन अमिताः अपरिच्छिन्नाः तान् तुविराधसः प्रभूतधनान् नॄन् नेतॄन् वन्दस्व ॥ २ ॥