श्रवणम्

5.60.4 समानपद
व॒रा इ॒वेद्रै᳚व॒तासो॒ हिर᳚ण्यैर॒भि स्व॒धाभि᳚स्त॒न्व᳚ः पिपिश्रे ।
श्रि॒ये श्रेयां᳚सस्त॒वसो॒ रथे᳚षु स॒त्रा महां᳚सि चक्रिरे त॒नूषु᳚ ॥
▶ पदपाठः (Word-by-word)
व॒राः॑इ᳚व । इत् । रै॒व॒तासः᳚ । हिर᳚ण्यैः । अ॒भि । स्व॒धाभिः᳚ । त॒न्वः᳚ । पि॒पि॒श्रे॒ ।
श्रि॒ये । श्रेयां᳚सः । त॒वसः᳚ । रथे᳚षु । स॒त्रा । महां᳚सि । च॒क्रि॒रे॒ । त॒नूषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वराइव विवाहयोग्यायुवानइव तेयथा रैवता सोधनवन्तोहिरण्यैः हिरण्यमयैराभरणविशेषैः स्वधाभिरुदकैश्च तन्वः स्वीयानिशरी- राणि अभिपिपिश्रे संयोजयन्ति अलंकुर्वन्ति तद्वदेतेमरुतोपि रैवतासः धनवन्तः हिरण्यैर्हिरण्यस्थानीयैः विद्युदाख्यैराभरणैः स्वधाभिश्च तन्वः स्वीयानिशरीराणि पिपिश्रे श्रिये शोभायै श्रेयांसः श्रेष्ठाः तवसोबलवन्तोमरुतोरथेषु सत्रा सत्यं सहवा तनूषु महांसि चक्रिरे कृत- वन्तः सर्वाभरणैरुदकैश्चोपेताः रथानधिष्ठाय शरीरेषु तेजांस्यधारयन्नित्यर्थः ॥ ४ ॥