श्रवणम्

5.37.2
समि᳚द्धाग्निर्वनवत्स्ती॒र्णब᳚र्हिर्यु॒क्तग्रा᳚वा सु॒तसो᳚मो जराते ।
ग्रावा᳚णो॒ यस्ये᳚षि॒रं वद॒न्त्यय᳚दध्व॒र्युर्ह॒विषाव॒ सिन्धु᳚म् ॥
▶ पदपाठः (Word-by-word)
समि᳚द्ध॑अग्निः । व॒न॒व॒त् । स्ती॒र्ण॑ब᳚र्हिः । यु॒क्त॑ग्रा᳚वा । सु॒त॑सो᳚मः । ज॒रा॒ते॒ ।
ग्रावा᳚णः । यस्य᳚ । इ॒षि॒रम् । वद᳚न्ति । अय᳚त् । अ॒ध्व॒र्युः । ह॒विषा᳚ । अव᳚ । सिन्धु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

समिद्धोग्निः प्रदीप्ताग्निः स्तीर्णबर्हिः प्रस्तृतदर्भोयंयजमानोवनवत् संभजते युक्तग्रावा नियुक्ताभिषवपाषाणः सुतसोमोभिषुतसोमोजराते जरति स्तौति यस्याध्वर्योर्ग्रावाणोभिषवसाधनाइषिरंएषणीयंगमनशीलंवाशब्दंवदन्ति सोध्वर्युर्हविषासहसिंधु अवनेजनीरपः अवायत् अवगच्छाति ॥ २ ॥