श्रवणम्

5.37.5
पुष्या॒त्क्षेमे᳚ अ॒भि योगे᳚ भवात्यु॒भे वृतौ᳚ संय॒ती सं ज᳚याति ।
प्रि॒यः सूर्ये᳚ प्रि॒यो अ॒ग्ना भ᳚वाति॒ य इन्द्रा᳚य सु॒तसो᳚मो॒ ददा᳚शत् ॥
▶ पदपाठः (Word-by-word)
पुष्या᳚त् । क्षेमे᳚ । अ॒भि । योगे᳚ । भ॒वा॒ति॒ । उ॒भे इति᳚ । वृतौ᳚ । सं॒य॒ती इति᳚ स॒म्॑य॒ती । सम् । ज॒या॒ति॒ ।
प्रि॒यः । सूर्ये᳚ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । यः । इन्द्रा᳚य । सु॒त॑सो᳚मः । ददा᳚शत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुष्यात् पोषयेत् बंध्वादीन् क्षेमे प्राप्तस्यधनस्यरक्षणे योगे अलब्धस्यप्राप्तौचाभिभवातिभवति अभीत्यनर्थकोधात्वर्थानुवादीवा प्रभुर्भवतीत्यर्थः तथा उभे वृतौवर्तमानेसंयतीनियते अहोरात्रे संजयाति सम्यक् जयति तेसुखकरेस्यातामित्यर्थः किंच सप्रियोभवति सूर्येतथाग्नाअग्नौप्रियोभवति यइन्द्रायसुतसोमोददाशत् सोमंददाति ॥ ५ ॥

उरोष्टइतिपंचर्चंषष्ठंसूक्तं अत्रेरार्षमानुष्टुभमैन्द्रं उरोरानुष्टुभमित्यनुक्रान्तं विनियोगोलैंगिकः ।