व॒धूरि॒यं पति᳚मि॒च्छन्त्ये᳚ति॒ य ईं॒ वहा᳚ते॒ महि᳚षीमिषि॒राम् ।
आस्य᳚ श्रवस्या॒द्रथ॒ आ च᳚ घोषात्पु॒रू स॒हस्रा॒ परि᳚ वर्तयाते ॥
आस्य᳚ श्रवस्या॒द्रथ॒ आ च᳚ घोषात्पु॒रू स॒हस्रा॒ परि᳚ वर्तयाते ॥
पदपाठः (Word-by-word)
व॒धूः । इ॒यम् । पति᳚म् । इ॒च्छन्ती᳚ । ए॒ति॒ । यः । ई॒म् । वहा᳚ते । महि᳚षीम् । इ॒षि॒राम् ।
आ । अ॒स्य॒ । श्र॒व॒स्या॒त् । रथः᳚ । आ । च॒ । घो॒षा॒त् । पु॒रु । स॒हस्रा᳚ । परि᳚ । व॒र्त॒या॒ते॒ ॥
आ । अ॒स्य॒ । श्र॒व॒स्या॒त् । रथः᳚ । आ । च॒ । घो॒षा॒त् । पु॒रु । स॒हस्रा᳚ । परि᳚ । व॒र्त॒या॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
इयंवधूरिन्द्रस्यपत्नी पतिमिच्छन्ती स्वप्रियंयज्ञगमनायप्रकृतमिच्छन्त्येतिअनुगच्छति यइन्द्रः ईमेनांमहिषींवहाते वहति इषिरांगमनवतीं अरयेन्द्रस्यरथः आअर्वागस्मदभिमुखंश्रवस्यात् अन्नमिच्छन्ति आचघोषात् आघुष्यतिशब्दयति पुरु अत्यधिकंसहस्रा सहस्राणिधनानि परिपरितोवर्तयाते वर्तयति प्रापयति श्रवस्यादाचघुष्यादितिवा ॥ ३ ॥