श्रवणम्

5.37.4 समानपद
न स राजा᳚ व्यथते॒ यस्मि॒न्निन्द्र᳚स्ती॒व्रं सोमं॒ पिब᳚ति॒ गोस᳚खायम् ।
आ स᳚त्व॒नैरज᳚ति॒ हन्ति᳚ वृ॒त्रं क्षेति᳚ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य᳚न् ॥
▶ पदपाठः (Word-by-word)
न । सः । राजा᳚ । व्य॒थ॒ते॒ । यस्मि᳚न् । इन्द्रः᳚ । ती॒व्रम् । सोम᳚म् । पिब᳚ति । गो॑स᳚खायम् ।
आ । स॒त्व॒नैः । अज᳚ति । हन्ति᳚ । वृ॒त्रम् । क्षेति᳚ । क्षि॒तीः । सु॒॑भगः᳚ । नाम᳚ । पुष्य᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सराजानव्यथते व्यथितोनभवति यस्मिन्राजनितदीयेयज्ञे इन्द्रस्तीव्रंमदजनकंसोमंपिबति गोसखायं विकारेप्रकृतिशब्दः क्षीरादिमिश्रणवन्तं सराजासत्वनैः सत्वभिरनुचरैः आसर्वतः अजति गच्छति हन्तिचवृत्रं पापं वैरिणंवा क्षेतिगच्छतिक्षितीः प्रजाः अथवाक्षितीः निवासान् निवसते सुभगः शोभनसुखोनामनामकंधनंइन्द्रस्यस्तोत्रंवापुष्यन् पोषयन् ॥ ४ ॥