श्रवणम्

5.45.7 समानपद
अनू᳚नो॒दत्र॒ हस्त᳚यतो॒ अद्रि॒रार्च॒न्येन॒ दश᳚ मा॒सो नव᳚ग्वाः ।
ऋ॒तं य॒ती स॒रमा॒ गा अ᳚विन्द॒द्विश्वा᳚नि स॒त्याङ्गि᳚राश्चकार ॥
▶ पदपाठः (Word-by-word)
अनू᳚नोत् । अत्र᳚ । हस्त᳚॑यतः । अद्रिः᳚ । आर्च᳚न् । येन᳚ । दश᳚ । मा॒सः । नव᳚॑ग्वाः ।
ऋ॒तम् । य॒ती । स॒रमा᳚ । गाः । अ॒वि॒न्द॒त् । विश्वा᳚नि । स॒त्या । अङ्गि᳚राः । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रास्मिन्यज्ञे अद्रिरभिशह्वग्रावा हस्तयतोहस्तेनसंहतःसन् अनूनोत् नौतिरत्रशब्दमात्रेवर्तते अशब्दयत् येनग्राव्णा तदभिषवेण दशमासोमासान् दशमासपर्यन्तं नवग्वाः नवमासपर्यन्तं गवार्थमनुतिष्ठन्तोंगिरसोन्वग्वाः न्वगोयुक्तावा आर्चन् अपूजयन्निन्द्रं यद्वा दशसंख्याकामासोपेताः दशमासानुष्ठानाः अंगिरसोपरेनवग्वाश्चैतेसर्वेपि येनार्चन्ति नवग्वासः सुतसोमासइन्द्रमितिहिनिगमः । ऋतं सत्यंयज्ञंवायतीप्राप्नुवती सरमा सरणशीलास्तुतिरूपा वाक् अंगिरसां गवार्थं इन्द्रेणप्रहितादेवशुनीवा सरमा सरणशीलास्तुतिरूपा वाक् अंगिरसां गवार्थं इन्द्रेणप्रहितादेवशुनीवा गाअविन्दत् पणिभिरपहृताः विश्वानि सर्वाणिस्तुत्यादिलक्षणानि सत्या सत्यानि चकारांगिराः ॥ ७ ॥