आ सूर्यो᳚ यातु स॒प्ताश्व॒ः क्षेत्रं॒ यद᳚स्योर्वि॒या दी᳚र्घया॒थे ।
र॒घुः श्ये॒नः प᳚तय॒दन्धो॒ अच्छा॒ युवा᳚ क॒विर्दी᳚दय॒द्गोषु॒ गच्छ᳚न् ॥
र॒घुः श्ये॒नः प᳚तय॒दन्धो॒ अच्छा॒ युवा᳚ क॒विर्दी᳚दय॒द्गोषु॒ गच्छ᳚न् ॥
पदपाठः (Word-by-word)
आ । सूर्यः᳚ । या॒तु॒ । स॒प्त॑अ᳚श्वः । क्षेत्र᳚म् । यत् । अ॒स्य॒ । उ॒र्वि॒या । दी॒र्घ॒॑या॒थे ।
र॒घुः । श्ये॒नः । प॒त॒य॒त् । अन्धः᳚ । अच्छ᳚ । युवा᳚ । क॒विः । दी॒द॒य॒त् । गोषु᳚ । गच्छ᳚न् ॥
र॒घुः । श्ये॒नः । प॒त॒य॒त् । अन्धः᳚ । अच्छ᳚ । युवा᳚ । क॒विः । दी॒द॒य॒त् । गोषु᳚ । गच्छ᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
सूर्यः सर्वस्यप्रेरकोदेवः सप्ताश्वः सर्पणस्वभावाश्वोपेतः सप्तसंख्याकाश्वोवा आयातु अस्मदभिमुखमागच्छतु यद्यस्मादस्यसूर्यस्य दीर्घसाथे दीर्घगमने क्षेत्रं गंतव्यप्रदेशः उर्विया उरुअतिप्रभूतायामः सएवदेवोरघुः लघुगमनः सश्येनः शंसनीयगमनः अन्धोदीयमानंहविः अच्छाभिलक्ष्यपतयत् आगच्छति युवा सर्वत्रमिश्रयिता कविः क्रान्तदर्शी सन् गोषुरश्मिषुग्च्छन् मध्येवर्तयन् दीदयत् दीप्यते यद्वा श्येनः सुपर्णः अंधअच्छपतयत् द्युलोकस्थंसोमलक्षणं देवानामन्नमस्मद्यागार्थमानेतुंतदभिमुखमगात् युवेत्यादिशिष्टंसमानम् ॥ ९ ॥