आ सूर्यो᳚ अरुहच्छु॒क्रमर्णो॑यु᳚क्त॒ यद्ध॒रितो᳚ वी॒तपृ᳚ष्ठाः ।
उ॒द्ना न नाव᳚मनयन्त॒ धीरा᳚ आशृण्व॒तीरापो᳚ अ॒र्वाग᳚तिष्ठन् ॥
उ॒द्ना न नाव᳚मनयन्त॒ धीरा᳚ आशृण्व॒तीरापो᳚ अ॒र्वाग᳚तिष्ठन् ॥
पदपाठः (Word-by-word)
आ । सूर्यः᳚ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः᳚ । अयु᳚क्त । यत् । ह॒रितः᳚ । वी॒त॑पृ᳚ष्ठाः ।
उ॒द्ना । न । नाव᳚म् । अ॒न॒य॒न्त॒ । धीराः᳚ । आ॒॑शृ॒ण्व॒तीः । आपः᳚ । अ॒र्वाक् । अ॒ति॒ष्ठ॒न् ॥
उ॒द्ना । न । नाव᳚म् । अ॒न॒य॒न्त॒ । धीराः᳚ । आ॒॑शृ॒ण्व॒तीः । आपः᳚ । अ॒र्वाक् । अ॒ति॒ष्ठ॒न् ॥
सायणभाष्यम् (Sayana Commentary)
सूर्योदेवः शुक्रं दीप्तं अर्णउदकंप्रति आरुहत् सर्वतःप्रादुर्भवति यद्यस्मात् यदावा हरितोश्वान् वीतपृष्ठाः कान्तपृष्ठानयुक्त रथेअयोजयत् तदा तंसूर्यं धीराधीमन्तोयजमानादयः उद्रा उदकेननावंन नावमिवानयन्त तदा आश्रृण्वतीः सर्वतोनुज्ञांकुर्वाणाआपोअर्वाक्अवाङ्मुखाअतिष्ठन् अभवन् ॥ १० ॥