श्रवणम्

5.45.11
धियं᳚ वो अ॒प्सु द᳚धिषे स्व॒र्षां ययात᳚र॒न्दश᳚ मा॒सो नव᳚ग्वाः ।
अ॒या धि॒या स्या᳚म दे॒वगो᳚पा अ॒या धि॒या तु᳚तुर्या॒मात्यंहः᳚ ॥
▶ पदपाठः (Word-by-word)
धिय᳚म् । वः॒ । अ॒प्॑सु । द॒धि॒षे॒ । स्वः॒॑साम् । यया᳚ । अत᳚रन् । दश᳚ । मा॒सः । नव᳚॑ग्वाः ।
अ॒या । धि॒या । स्या॒म॒ । दे॒व॑गो᳚पाः । अ॒या । धि॒या । तु॒तु॒र्या॒म॒ । अति᳚ । अंहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवाः वोयुष्माकं धियं स्तुतिं अप्सु अप् निमित्तां स्वर्षां सर्वस्यदात्रीं दधिषे धारयामि व्यत्ययेनमध्यमः ययाधिया कर्मणानवग्वाः अंगिरसः दशमासः अतरन् समनुतिष्ठन्तः अया अनयाधिया देवगोपाः देवैर्गुप्ताः स्यामभवेम अयाधिया अंहः पापं अतितुतुर्याम अतितरेम ॥ ११ ॥

हयोनविद्वानित्यष्टर्चंद्वितीयंसूक्तं प्रतिक्षत्रस्यार्षं अष्टमीद्वितीयाचत्रिष्टुभौ शिष्टाःषट्जगत्यः आदितः षट्वैश्वदेव्यः सप्तम्यष्टम्योर्देवपत्नयोदेवता तथाचानुक्रान्तं-हयोष्टौप्रतिक्षत्रोंत्योद्वृचोदेवपत्नीस्तवोंत्यात्रिष्टुप् द्वितीयाचेति । सूक्तविनियोगोलैंगिकः ।